DLP प्रगतवर्गाः (Advanced Classes)
Samskrita Bharati, USA – Distance Learning Program
Namaste!
We are happy to announce classes in various shastras that will be taught by experts, through the medium of Samskritam. These may or may not be part other formal programs that we may offer in the future.
Upcoming Classes -
कारकवर्गः
Option 1 - 4/26/2017 to 6/28/2017 - 10 weeks Option 2 - 4/28/2017 to 6/30/2017
व्याकरणे पदसम्बद्धाः वर्णसम्बद्धाः वाक्यसम्बद्धाः चेति त्रिविधाः नियमाः भवन्ति । कारकं वाक्यसम्बद्धं भवति । कुत्र कुत्र का का विभक्तिः योजनीया इति अस्मिन् भागे पाठ्यते । एतत् ज्ञानं वाक्यनिर्माणे अतीव उपकारकं भवति । कारकस्य वैशिष्ट्यं नाम एतस्य ज्ञानार्थम् अन्यप्रकरणानां ज्ञानं न अपेक्षितम् । अपि च इदं संस्कृतभाषाभ्यासिनाम् अत्यन्तम् अनिवार्यम् । अतः आदौ कारकस्य अध्ययनम् अतीव प्रशस्तम् भवति ।
Fee: $51
Taught On: (Two concurrent batches for the same course)
Class I - Wednesdays - Click Here to Register from 9:30pm to 10:30pm ET (6:30pm to 7:30pm PT)
Class 2 - Fridays - Click Here to Register from 10:00pm to 11:00pm ET (7:00pm to 8:00pm PT)
Taught by
श्रीमान् गानमूर्तिः शर्मा
आचार्यस्य परिचयः
श्रीमान् गानमूर्तिः शर्मा केरळराज्यस्य कासरगोडुप्रदेशीयः । सः संस्कृतशिक्षणं राष्ट्रियसंस्कृतसंस्थानस्य शृङ्गेरीपरिसरे प्राप्तवान् । तत्र न्यायशाश्त्रे (Indian logic) आचार्यः इति पदवीं प्राप्य ततः परं तिरुपतौ अलङ्कारशास्त्रे आचार्यपदवीं प्राप्तवान् । अध्ययनानन्तरं षड् वर्षाणि बेङ्गळूरुनगरे संस्कृतभारत्याः केन्द्रे अक्षरे कार्यं कृतवान् । भारतीकोशः, सम्भाषणसन्देशः, पत्रालयद्वारा संस्कृतम् इत्यादिषु विभागेषु कार्यं कृत्वा इदानीं संस्कृतसंवर्धनप्रतिष्ठानस्य कार्यं शृङ्गेरीमध्ये करोति ।
Classes so far -
न्यायशास्त्रवर्गः
01/17/2017 09:00 PM - 3/21/2017 10:30 PM ET
Samskritam Classes (by Teleconference) (Continuation)
द्वितीयं चक्रम् पूर्वतनपाठस्य अनुवर्तनरूपेण भवति एतस्य चक्रस्य वर्गाः । अस्मिन् चक्रे नूतना अपि भागं वोढुं शक्नुवन्ति पूर्वतनपाठानां ध्वनिमुद्रणं श्रुत्वा आगच्छन्ति चेत् । पूर्वतनपाठानां ध्वनिमुद्रणार्थं कृपया अस्माकं सम्पर्कं कुर्वन्तु (This email address is being protected from spambots. You need JavaScript enabled to view it.) |
(प्रथमं चक्रम् भारतस्य दर्शनेषु अन्यतममस्ति इदं न्यायशास्त्रम् । एतत् वस्तुतत्त्वज्ञानं बोधयति, तर्कः एतस्यैव अन्तर्भागः । 2016 जाह्नवीशिबिरे प्रथमवारं न्यायशास्त्रविषये परिचयवर्गः आयोजितः प्रगतस्तरे । तत्र ये केऽपि भागं स्वीकृतवन्तः, तेषु बहवः अग्रे गत्वा अध्ययनम् अनुवर्तयितुम् इष्टवन्तः । आचार्यः श्रीमान् दोर्बल प्रभाकरशर्मा महाभागः अपि पाठयितुम् सिद्धः इति तु महतः सन्तोषस्य विषयः । आदौ अनुवर्तनवर्गः एव भवतु इति चिन्तितं, परन्तु नूतनानां कृतेऽपि अवसरं कल्पयितुं आचार्यः आरम्भात् पुनः पाठयिष्यति । पाठनं सर्वमपि संस्कृतेन भवति । अतः ऋते किञ्चित् संस्कृतसम्भाषण-अवगमन-सामर्थ्यात् नान्यत् अपेक्षितं भागं वोढुम् । इदं शास्त्रं बुद्धेः तीक्ष्णतां वर्धयति अतः अन्यानि शास्त्राणि अध्येतुं एतत् उपकरोति इति मन्यन्ते । कठिनाः अपि अंशाः आचार्यस्य सरलया शैल्या सुग्राह्याः भवन्ति इति छात्राणाम् अनुभवः ।)
Fee: $51
Taken On:
Tuesdays from 9:00pm to 10:30pm ET (6:00pm to 7:30pm PT)
Taught by
श्रीमान् दोर्बल प्रभाकरशर्मा महोदय:
आचार्यस्य परिचयः
श्रीमान् दोर्बल प्रभाकरशर्मा महाभागः शतावधानी, नैयायिकः (न्यायशास्त्रे कोविदः), आशुकविश्च । संस्कृतभारत्याः पूर्वान्ध्रप्रदेशस्य प्रान्ताध्यक्षः । बहूनि गीतानि अपि रचितवान् । सः आन्ध्रप्रदेशस्य कोव्वुरु प्रदेशे वसति, सेवानिवृत्तश्च ।
Contacts
If you have any questions, please send an e-mail to This email address is being protected from spambots. You need JavaScript enabled to view it. In your message, please provide your phone number, city (where you live), state and a good time to call you back (along with your Time Zone). A Samskrita Bharati volunteer will respond as quickly as possible by phone or email.